Sukta 7.76
तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य । यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव ॥
तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य । यत॒: परि॑ जा॒र इ॑वा॒चर॒न्त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥
tā́nīd áhāni bahulā́ny āsan yā́ prācī́nam úd itā́ sū́ryasya | yatáḥ pári jārá iva ā́caranty uṣó dadṛkṣé ná púnar yatī́va ||
Those were indeed many days when she rose in the east with the Sun; from there Dawn moves around like a lover seeking, seen again and again—yet never returning as the same that has gone before.
तानि॑ । इत् । अहा॑नि । ब॒हु॒लानि॑ । आ॒स॒न् । या । प्रा॒चीन॑म् । उत्ऽइ॑ता॒ । सूर्य॑स्य । यतः॑ । परि॑ । जा॒रःऽइ॑व । आ॒ऽचर॒न्ती । उषः॑ । द॒दृ॒क्षे । न । पुनः॑ । य॒तीऽइ॑व ॥तानि । इत् । अहानि । बहुलानि । आसन् । या । प्राचीनम् । उत्इता । सूर्यस्य । यतः । परि । जारःइव । आचरन्ती । उषः । ददृक्षे । न । पुनः । यतीइव ॥tāni | it | ahāni | bahulāni | āsan | yā | prācīnam | ut-itā | sūryasya | yataḥ | pari | jāraḥ-iva | ācarantī | uṣaḥ | dadṛkṣe | na | punaḥ | yatī-iva