Sukta 7.76
प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः । अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥
प्र मे॒ पन्था॑ देव॒याना॑ अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः । अभू॑दु के॒तुरु॒षस॑: पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्य॑: ॥
prá me pánthā devayā́nā adṛśrann ámardhanto vásubhir íṣkṛtāsaḥ | abhūd u ketúr uṣásaḥ purástāt pratī́cy ā́gād ádhi harmyébhyaḥ ||
The paths of the gods become visible within me; strengthened and well-fashioned by the powers of abundance they move forward. The banner-sign of Dawn has come into being in front; she turns back toward us, arriving over our human habitations.
प्र । मे॒ । पन्था॑ । दे॒व॒ऽयानाः॑ । अ॒दृ॒श्र॒न् । अम॑र्धन्तः । वसु॑ऽभिः । इष्कृ॑तासः । अभू॑त् । ऊँ॒ इति॑ । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । प्र॒ती॒ची । आ । अ॒गा॒त् । अधि॑ । ह॒र्म्येभ्यः॑ ॥प्र । मे । पन्था । देवयानाः । अदृश्रन् । अमर्धन्तः । वसुभिः । इष्कृतासः । अभूत् । ऊँ इति । केतुः । उषसः । पुरस्तात् । प्रतीची । आ । अगात् । अधि । हर्म्येभ्यः ॥pra | me | panthā | deva-yānāḥ | adṛśran | amardhantaḥ | vasu-bhiḥ | iṣkṛtāsaḥ | abhūt | oṃ iti | ketuḥ | uṣasaḥ | purastāt | pratīcī | ā | agāt | adhi | harmyebhyaḥ