Sukta 7.76
उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥
उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् । क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥
úd u jyótiḥ amṛ́taṃ viśvá-janyaṃ viśvā́naraḥ savitā́ devó aśret | kratvā́ devā́nām ajaniṣṭa cákṣur āvír akar bhúvanaṃ víśvam uṣā́ḥ ||
Up has risen the immortal light, born for all; the god Savitṛ, the Universal Fire, has extended it. By the will of the gods the Eye has been born; Dawn has made manifest the whole world of becoming.
उत् । ऊँ॒ इति॑ । ज्योतिः॑ । अ॒मृत॑म् । वि॒श्वऽज॑न्यम् । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । क्रत्वा॑ । दे॒वाना॑म् । अ॒ज॒नि॒ष्ट॒ । चक्षुः॑ । आ॒विः । अ॒कः॒ । भुव॑नम् । विश्व॑म् । उ॒षाः ॥उत् । ऊँ इति । ज्योतिः । अमृतम् । विश्वजन्यम् । विश्वानरः । सविता । देवः । अश्रेत् । क्रत्वा । देवानाम् । अजनिष्ट । चक्षुः । आविः । अकः । भुवनम् । विश्वम् । उषाः ॥ut | oṃ iti | jyotiḥ | amṛtam | viśva-janyam | viśvānaraḥ | savitā | devaḥ | aśret | kratvā | devānām | ajaniṣṭa | cakṣuḥ | āviḥ | akaḥ | bhuvanam | viśvam | uṣāḥ