Sukta 7.75
सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः । रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त ॥
स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑र्यज॒ता यज॑त्रैः । रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया॑णां॒ प्रति॒ गाव॑ उ॒षसं॑ वावशन्त ॥
satyā́ satyébhiḥ mahatī́ mahádbhir devī́ devébhiḥ yájatā yájatraiḥ | rujád dṛḷhā́ni dádad usríyāṇāṃ práti gā́va uṣásaṃ vāvaśanta ||
True with the true, great with the great, the Goddess is worship-worthy with the worship-worthy gods. Breaking the firm-held bonds, giving out the luminous herds of rays, the cows of light low in response toward the Dawn.
स॒त्या । स॒त्येभिः॑ । म॒ह॒ती । म॒हत्ऽभिः॑ । दे॒वी । दे॒वेभिः॑ । य॒ज॒ता । यज॑त्रैः । रु॒जत् । दृ॒ळ्हानि॑ । दद॑त् । उ॒स्रिया॑नाम् । प्रति॑ । गावः॑ । उ॒षस॑म् । वा॒व॒श॒न्त॒ ॥सत्या । सत्येभिः । महती । महत्भिः । देवी । देवेभिः । यजता । यजत्रैः । रुजत् । दृळ्हानि । ददत् । उस्रियानाम् । प्रति । गावः । उषसम् । वावशन्त ॥satyā | satyebhiḥ | mahatī | mahat-bhiḥ | devī | devebhiḥ | yajatā | yajatraiḥ | rujat | dṛḷhāni | dadat | usriyānām | prati | gāvaḥ | uṣasam | vāvaśanta