Sukta 7.75
नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे । मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥
नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा॑वत्पुरु॒भोजो॑ अ॒स्मे । मा नो॑ ब॒र्हिः पु॑रु॒षता॑ नि॒दे क॑र्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
nū́ no gómad vī́ravad dhehi rátnam uṣo áśvāvát puru-bhójo asmē | mā́ no bárhiḥ puruṣátā nidē ka yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
Now set in us the treasure rich in rays and heroic powers, O Dawn—rich in steeds, wide in enjoyment for us. Let not our offering-seat be for blame by any; do you guard us always with your harmonies of well-being.
नु । नः॒ । गोऽम॑त् । वी॒रऽव॑त् । धे॒हि॒ । रत्न॑म् । उषः॑ । अश्व॑ऽवत् । पु॒रु॒ऽभोजः॑ । अ॒स्मे इति॑ । मा । नः॒ । ब॒र्हिः । पु॒रु॒षता॑ । नि॒दे । कः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । नः । गोमत् । वीरवत् । धेहि । रत्नम् । उषः । अश्ववत् । पुरुभोजः । अस्मे इति । मा । नः । बर्हिः । पुरुषता । निदे । कः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥nu | naḥ | go--mat | vīra-vat | dhehi | ratnam | uṣaḥ | aśva-vat | puru-bhojaḥ | asme iti | mā | naḥ | barhiḥ | puruṣatā | nide | kaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ