Sukta 7.75
प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः । याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥
प्रति॑ द्युता॒नाम॑रु॒षासो॒ अश्वा॑श्चि॒त्रा अ॑दृश्रन्नु॒षसं॒ वह॑न्तः । याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे॑न॒ दधा॑ति॒ रत्नं॑ विध॒ते जना॑य ॥
práti dyutā́nām aruṣā́so áśvāś citrā́ adṛśran uṣásaṃ váhantaḥ | yā́ti śubhrā́ viśvá-piśā ráthena dádhāti rátnam vidhaté jánāya ||
Against the shining of the heights the ruddy, bright horses have appeared, bearing the Dawn. She comes, radiant, on her all-adorned chariot; she sets the treasure in the one who offers—into the human being who is ready to serve the Truth.
प्रति॑ । द्यु॒ता॒नाम् । अ॒रु॒षासः॑ । अश्वाः॑ । चि॒त्राः । अ॒दृ॒श्र॒न् । उ॒षस॑म् । वह॑न्तः । याति॑ । शु॒भ्रा । वि॒श्व॒ऽपिशा॑ । रथे॑न । दधा॑ति । रत्न॑म् । वि॒ध॒ते । जना॑य ॥प्रति । द्युतानाम् । अरुषासः । अश्वाः । चित्राः । अदृश्रन् । उषसम् । वहन्तः । याति । शुभ्रा । विश्वपिशा । रथेन । दधाति । रत्नम् । विधते । जनाय ॥prati | dyutānām | aruṣāsaḥ | aśvāḥ | citrāḥ | adṛśran | uṣasam | vahantaḥ | yāti | śubhrā | viśva-piśā | rathena | dadhāti | ratnam | vidhate | janāya