Sukta 7.75
वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् । ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥
वा॒जिनी॑वती॒ सूर्य॑स्य॒ योषा॑ चि॒त्राम॑घा रा॒य ई॑शे॒ वसू॑नाम् । ऋषि॑ष्टुता ज॒रय॑न्ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ॥
vājínīvatī sū́ryasya yóṣā citrā́-maghā rāyá ī́śe vásūnām | ṛ́ṣi-stutā jarayántī maghónī uṣā́ ucchati váhni-bhir gṛṇānā́ ||
Force-possessing, the young bride of the Sun, rich in varied gifts, she rules the plenitudes. Praised by seers, renewing the age, the bountiful Dawn rises—sung by the flame-tongued energies of aspiration.
वा॒जिनी॑ऽवती । सूर्य॑स्य । योषा॑ । चि॒त्रऽम॑घा । रा॒यः । ई॒शे॒ । वसू॑नाम् । ऋषि॑ऽस्तुता । ज॒रय॑न्ती । म॒घोनी॑ । उ॒षाः । उ॒च्छ॒ति॒ । वह्नि॑ऽभिः । गृ॒णा॒ना ॥वाजिनीवती । सूर्यस्य । योषा । चित्रमघा । रायः । ईशे । वसूनाम् । ऋषिस्तुता । जरयन्ती । मघोनी । उषाः । उच्छति । वह्निभिः । गृणाना ॥vājinī-vatī | sūryasya | yoṣā | citra-maghā | rāyaḥ | īśe | vasūnām | ṛṣi-stutā | jarayantī | maghonī | uṣāḥ | ucchati | vahni-bhiḥ | gṛṇānā