Sukta 7.75
एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति । अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥
ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति । अ॒भि॒पश्य॑न्ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥
eṣā́ syā́ yujānā́ parākā́t páñca kṣitī́ḥ pári sadyó jigāti | abhí-paśyantī vayúnā jánānāṃ divó duhitā́ bhúvanasya pátnī ||
She, yoking herself from afar, swiftly encompasses the five habitations. Seeing into the workings of the peoples, the Daughter of Heaven moves—Lady of the world, spouse of becoming.
ए॒षा । स्या । यु॒जा॒ना । प॒रा॒कात् । पञ्च॑ । क्षि॒तीः । परि॑ । स॒द्यः । जि॒गा॒ति॒ । अ॒भि॒ऽपश्य॑न्ती । व॒युना॑ । जना॑नाम् । दि॒वः । दु॒हि॒ता । भुव॑नस्य । पत्नी॑ ॥एषा । स्या । युजाना । पराकात् । पञ्च । क्षितीः । परि । सद्यः । जिगाति । अभिपश्यन्ती । वयुना । जनानाम् । दिवः । दुहिता । भुवनस्य । पत्नी ॥eṣā | syā | yujānā | parākāt | pañca | kṣitīḥ | pari | sadyaḥ | jigāti | abhi-paśyantī | vayunā | janānām | divaḥ | duhitā | bhuvanasya | patnī