Sukta 7.75
एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः । जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः ॥
ए॒ते त्ये भा॒नवो॑ दर्श॒ताया॑श्चि॒त्रा उ॒षसो॑ अ॒मृता॑स॒ आगु॑: । ज॒नय॑न्तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णन्तो॑ अ॒न्तरि॑क्षा॒ व्य॑स्थुः ॥
eté tyé bhānávō darśatā́yāś citrā́ uṣáso amṛ́tāsa ā́guḥ | janáyanto daivyā́ni vratā́ny āpṛṇánto antárikṣā ví asthuḥ ||
These radiant beams of the fair-seeing Dawn, bright and deathless, have come. Bringing to birth the divine laws of working, filling the mid-world, they have taken their stations wide apart.
ए॒ते । त्ये । भा॒नवः॑ । द॒र्श॒तायाः॑ । चि॒त्राः । उ॒षसः॑ । अ॒मृता॑सः । आ । अ॒गुः॒ । ज॒नय॑न्तः । दैव्या॑नि । व्र॒तानि । आ॒ऽपृ॒णन्तः॑ । अ॒न्तरि॑क्षा । वि । अ॒स्थुः॒ ॥एते । त्ये । भानवः । दर्शतायाः । चित्राः । उषसः । अमृतासः । आ । अगुः । जनयन्तः । दैव्यानि । व्रतानि । आपृणन्तः । अन्तरिक्षा । वि । अस्थुः ॥ete | tye | bhānavaḥ | darśatāyāḥ | citrāḥ | uṣasaḥ | amṛtāsaḥ | ā | aguḥ | janayantaḥ | daivyāni | vratāni | āpṛṇantaḥ | antarikṣā | vi | asthuḥ