Sukta 7.74
अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या ॥
अधा॑ ह॒ यन्तो॑ अ॒श्विना॒ पृक्ष॑: सचन्त सू॒रय॑: । ता यं॑सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ॥
ádhā ha yánto aśvinā pṛ́kṣaḥ sacanta sū́rayaḥ | tā́ yaṃsato maghávadbhyo dhrúvaṃ yáśaś chárdir asmábhyaṃ nā́satyā ||
Then indeed, as the Aśvins set forth, the illumined seers join them with their thriving energies. Grant to the generous a steadfast glory and a sheltering protection; and for us too, O Nāsatyas, establish that secure covering of grace.
अध॑ । ह॒ । यन्तः॑ । अ॒श्विना॑ । पृक्षः॑ । स॒च॒न्त॒ । सू॒रयः॑ । ता । यं॒स॒तः॒ । म॒घव॑त्ऽभ्यः । ध्रु॒वम् । यशः॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । नास॑त्या ॥अध । ह । यन्तः । अश्विना । पृक्षः । सचन्त । सूरयः । ता । यंसतः । मघवत्भ्यः । ध्रुवम् । यशः । छर्दिः । अस्मभ्यम् । नासत्या ॥adha | ha | yantaḥ | aśvinā | pṛkṣaḥ | sacanta | sūrayaḥ | tā | yaṃsataḥ | maghavat-bhyaḥ | dhruvam | yaśaḥ | chardiḥ | asmabhyam | nāsatyā