Sukta 7.74
अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः । मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥
अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीय॑न्ति॒ बिभ्र॑तः । म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥
aśvā́so yé vām úpa dāśúṣo gṛháṃ yuvā́ṃ dī́yanti bíbhrataḥ | makṣūyúbhir narā háyebhir aśvinā devā yātam asmayū́ ||
The horses that bear you, which bring you near to the house of the giver, carry you swiftly. With those quick-running steeds, O heroes, O Aśvins, O gods—come to us who long for you and seek your presence.
अश्वा॑सः । ये । वा॒म् । उप॑ । दा॒शुषः॑ । गृ॒हम् । यु॒वाम् । दीय॑न्ति । बिभ्र॑तः । म॒क्षु॒युऽभिः॑ । न॒रा॒ । हये॑भिः । अ॒श्वि॒ना॒ । आ । दे॒वा॒ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥अश्वासः । ये । वाम् । उप । दाशुषः । गृहम् । युवाम् । दीयन्ति । बिभ्रतः । मक्षुयुभिः । नरा । हयेभिः । अश्विना । आ । देवा । यातम् । अस्मयू इत्यस्मयू ॥aśvāsaḥ | ye | vām | upa | dāśuṣaḥ | gṛham | yuvām | dīyanti | bibhrataḥ | makṣuyu-bhiḥ | narā | hayebhiḥ | aśvinā | ā | devā | yātam | asmayū ity asma-yū