Sukta 7.74
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते । अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥
यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥
yuváṃ citráṃ dadathur bhójanaṃ narā cṓdethāṃ sūnṛ́tāvate | arvā́g ráthaṃ sámanasā ní yacchataṃ píbatam sōmyáṃ mádhu ||
You two give the varied nourishment, O heroes, and you impel the one who is rich in true speech. Bring your chariot near with one accord; drink the soma-honeyed sweetness—so the delight may increase in us and the straight word become effective.
यु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज॑नम् । न॒रा॒ । चोदे॑थाम् । सू॒नृता॑ऽवते । अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृतावते । अर्वाक् । रथम् । समनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥yuvam | citram | dadathuḥ | bhojanam | narā | codethām | sūnṛtāvate | arvāk | ratham | sa-manasā | ni | yacchatam | pibatam | somyam | madhu