Sukta 7.74
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥
इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते अश्विना । अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥
imā́ u vāṃ dívīṣṭaya usrā́ havante aśvinā | ayáṃ vām áhve ávase śacīvasū víśaṃviśaṃ hí gácchathaḥ ||
These seekers of the shining heaven call you, O Aśvins, as the dawn-lights rise. I too call you for help, O lords of effective power; for you indeed go from people to people, answering the need wherever it awakens.
इ॒माः । ऊँ॒ इति॑ । वा॒म् । दिवि॑ष्टयः । उ॒स्रा । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ । अ॒यम् । वा॒म् । अ॒ह्वे । अव॑से । श॒ची॒व॒सू॒ इति॑ शचीऽवसू॒ । विश॑म्ऽविशम् । हि । गच्छ॑थः ॥इमाः । ऊँ इति । वाम् । दिविष्टयः । उस्रा । हवन्ते । अश्विना । अयम् । वाम् । अह्वे । अवसे । शचीवसू इति शचीवसू । विशम्विशम् । हि । गच्छथः ॥imāḥ | oṃ iti | vām | diviṣṭayaḥ | usrā | havante | aśvinā | ayam | vām | ahve | avase | śacīvasūitiśacī-vasū | viśam-viśam | hi | gacchathaḥ