Sukta 7.71
युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् । निरंहसस्तमसः स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥
यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् । निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तम॒न्तः ॥
yuváṃ cyávānaṃ járaso ’mumuktaṃ ní pédava ūhathur āśúm áśvam | níraṃhasas támasas spártam átriṃ ní jā́huṣaṃ śithiré dhātam antáḥ ||
You two released Cyavāna from the grip of age; for Pedu you brought forth the swift horse. You set Atri free from the constriction, from the darkness; you placed Jāhuṣa within (safe), in a loosened, unharmed state.
यु॒वम् । च्यवा॑नम् । ज॒रसः॑ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् । निः । अंह॑सः । तम॑सः । स्पर्त॑म् । अत्रि॑म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒तम् । अ॒न्तरिति॑ ॥युवम् । च्यवानम् । जरसः । अमुमुक्तम् । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् । निः । अंहसः । तमसः । स्पर्तम् । अत्रिम् । नि । जाहुषम् । शिथिरे । धातम् । अन्तरिति ॥yuvam | cyavānam | jarasaḥ | amumuktam | ni | pedave | ūhathuḥ | āśum | aśvam | ni ḥ | aṃhasaḥ | tamasaḥ | spartam | atrim | ni | jāhuṣam | śithire | dhātam | antari ti