Sukta 7.71
यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाँ उस्रयामा । आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥
यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वन्धु॒रो वसु॑माँ उ॒स्रया॑मा । आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥
yó vāṃ rátho nṛpatī́ ásti voḷ́hā trívandhuro vásumān usrā́yāmā | ā́ na ena nāsatyópa yātam abhí yád vāṃ viśvápsnyo jígāti ||
That chariot of yours, O lords of men, which bears you—three-seated, rich in substance, moving in the paths of the shining Light—by it, O Nāsatyas, come near to us when the all-pervading (call/impulse) reaches you.
यः । वा॒म् । रथः॑ । नृ॒प॒ती॒ इति॑ नृऽपती । अस्ति॑ । वो॒ळ्हा । त्रि॒ऽव॒न्धु॒रः । वसु॑ऽमान् । उ॒स्रऽया॑मा । आ । नः॒ । ए॒ना । ना॒स॒त्या॒ । उप॑ । या॒त॒म् । अ॒भि । यत् । वा॒म् । वि॒श्वऽप्स्न्यः॑ । जिगा॑ति ॥यः । वाम् । रथः । नृपती इति नृपती । अस्ति । वोळ्हा । त्रिवन्धुरः । वसुमान् । उस्रयामा । आ । नः । एना । नासत्या । उप । यातम् । अभि । यत् । वाम् । विश्वप्स्न्यः । जिगाति ॥yaḥ | vām | rathaḥ | nṛpatī itinṛ-patī | asti | voḷhā | tri-vandhuraḥ | vasu-mān | usra-yāmā | ā | naḥ | enā | nāsatyā | upa | yātam | abhi | yat | vām | viśva-psnyaḥ | jigāti