Sukta 7.71
आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥
आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु । स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ॥
ā́ vāṃ rátham avamasyā́ṃ vyúṣṭau sumnā́yavo vṛ́ṣaṇo vartayantu | syū́magabhastim ṛtáyugbhir áśvair ā́śvinā vásumantaṃ vahethām ||
At the last breaking of dawn may the strong bring forward your chariot for our felicity; with horses yoked to the Truth, with hands that hold the reins well, O Aśvins, carry hither the chariot rich in inner plenitude.
आ । वा॒म् । रथ॑म् । अ॒व॒मस्या॑म् । विऽउ॑ष्टौ । सु॒म्न॒ऽयवः॑ । वृष॑णः । व॒र्त॒य॒न्तु॒ । स्यूम॑ऽगभस्तिम् । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । आ । अ॒श्वि॒ना॒ । वसु॑ऽमन्तम् । व॒हे॒था॒म् ॥आ । वाम् । रथम् । अवमस्याम् । विउष्टौ । सुम्नयवः । वृषणः । वर्तयन्तु । स्यूमगभस्तिम् । ऋतयुक्भिः । अश्वैः । आ । अश्विना । वसुमन्तम् । वहेथाम् ॥ā | vām | ratham | avamasyām | vi-uṣṭau | sumna-yavaḥ | vṛṣaṇaḥ | vartayantu | syūma-gabhastim | ṛtayuk-bhiḥ | aśvaiḥ | ā | aśvinā | vasu-mantam | vahethām