Sukta 7.71
उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता । युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥
उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वह॑न्ता । यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥
upā́yātaṃ dāśúṣe mártyāya ráthena vāmám aśvinā váhantā | yuyutám asmád anirā́m amī́vāṃ divā́ náktaṃ mādhvī́ trā́sīthāṃ naḥ ||
Come near for the mortal who offers, O Aśvins, borne in your fair chariot. Drive away from us the sickness that brings no delight; by day and by night, O sweet (honeyed) powers, protect us.
उ॒प॒ऽआया॑तम् । दा॒शुषे॑ । मर्त्या॑य । रथे॑न । वा॒मम् । अ॒श्वि॒ना॒ । वह॑न्ता । यु॒यु॒तम् । अ॒स्मत् । अनि॑राम् । अमी॑वाम् । दिवा॑ । नक्त॑म् । मा॒ध्वी॒ इति॑ । त्रासी॑थाम् । नः॒ ॥उपआयातम् । दाशुषे । मर्त्याय । रथेन । वामम् । अश्विना । वहन्ता । युयुतम् । अस्मत् । अनिराम् । अमीवाम् । दिवा । नक्तम् । माध्वी इति । त्रासीथाम् । नः ॥upa-āyātam | dāśuṣe | martyāya | rathena | vāmam | aśvinā | vahantā | yuyutam | asmat | anirām | amīvām | divā | naktam | mādhvī iti | trāsīthām | naḥ