Sukta 7.70
यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति । उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥
यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति । उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यन्ते यु॒वभ्या॑म् ॥
yó vāṃ yajñó nāsatyā havíṣmān kṛtábrāhmā samaryò bhávāti | úpa prá yātaṃ váram ā́ vasiṣṭhám imā́ bráhmāṇy ṛcyante yuvábhyām ||
That sacrifice of yours, O Nā́satyas, rich in offering, becomes a true battle-companion when the inspired speech is rightly fashioned. Come near and forward with the best gift toward Vasiṣṭha; these sacred formulations are being set in rhythm for you two.
यः । वा॒म् । य॒ज्ञः । ना॒स॒त्या॒ । ह॒विष्मा॑न् । कृ॒तऽब्र॑ह्मा । स॒ऽम॒र्यः॑ । भवा॑ति । उप॑ । प्र । या॒त॒म् । वर॑म् । आ । वसि॑ष्ठम् । इ॒मा । ब्रह्मा॑णि । ऋ॒च्य॒न्ते॒ । यु॒वऽभ्या॑म् ॥यः । वाम् । यज्ञः । नासत्या । हविष्मान् । कृतब्रह्मा । समर्यः । भवाति । उप । प्र । यातम् । वरम् । आ । वसिष्ठम् । इमा । ब्रह्माणि । ऋच्यन्ते । युवभ्याम् ॥yaḥ | vām | yajñaḥ | nāsatyā | haviṣmān | kṛta-brahmā | sa-maryaḥ | bhavāti | upa | pra | yātam | varam | ā | vasiṣṭham | imā | brahmāṇi | ṛcyante | yuva-bhyām