Sukta 7.70
शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् । प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥
शु॒श्रु॒वांसा॑ चिदश्विना पु॒रूण्य॒भि ब्रह्मा॑णि चक्षाथे॒ ऋषी॑णाम् । प्रति॒ प्र या॑तं॒ वर॒मा जना॑या॒स्मे वा॑मस्तु सुम॒तिश्चनि॑ष्ठा ॥
śuśruvā́ṃsā cid aśvinā purū́ṇy abhí bráhmāṇi cakṣāthe ṛ́ṣīṇām | práti prá yātaṃ váram ā́ jánāyāsmé vāṃ astu sumatíś caniṣṭhā́ ||
Even as those who listen, O Aśvins, you behold the many inspired utterances of the seers. Come forth toward the human being with the best gift; may your most intimate right-mindedness be in us.
शु॒श्रु॒वांसा॑ । चि॒त् । अ॒श्वि॒ना॒ । पु॒रूणि॑ । अ॒भि । ब्रह्मा॑णि । च॒क्षा॒थे॒ इति॑ । ऋषी॑णाम् । प्रति॑ । प्र । या॒त॒म् । वर॑म् । आ । जना॑य । अ॒स्मे इति॑ । वा॒म् । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥शुश्रुवांसा । चित् । अश्विना । पुरूणि । अभि । ब्रह्माणि । चक्षाथे इति । ऋषीणाम् । प्रति । प्र । यातम् । वरम् । आ । जनाय । अस्मे इति । वाम् । अस्तु । सुमतिः । चनिष्ठा ॥śuśruvāṃsā | cit | aśvinā | purūṇi | abhi | brahmāṇi | cakṣātheiti | ṛṣīṇām | prati | pra | yātam | varam | ā | janāya | asme iti | vām | astu | su-matiḥ | caniṣṭhā