Sukta 7.70
इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् । इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥
इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् । इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
iyáṃ manīṣā́ iyám aśvinā gī́r imā́ṃ suvṛktíṃ vṛṣaṇā juṣethām | imā́ bráhmāṇi yuvayū́ny agman yūyáṃ pāta svastíbhiḥ sádā naḥ ||
This is the thought, this is the song for you, O Aśvins; accept this well-woven utterance, O strong ones. These sacred formulations have come to you in the vigor of youth; you guard us always with your powers of right-being.
इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् । इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुवृक्तिम् । वृषणा । जुषेथाम् । इमा । ब्रह्माणि । युवयूनि । अग्मन् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥iyam | manīṣā | iyam | aśvinā | gīḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām | imā | brahmāṇi | yuva-yūni | agman | yūyam | pāta | svasti-bhiḥ | sadā | naḥ