Sukta 7.70
चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् । पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥
च॒नि॒ष्टं दे॑वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै॑थे॒ ऋषी॑णाम् । पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॒॑स्मे अनु॒ पूर्वा॑णि चख्यथुर्यु॒गानि॑ ॥
caniṣṭáṃ devā́ óṣadhīṣv apsú yád yogyā́ aśnávaithé ṛ́ṣīṇām | purū́ṇi rátnā dádhatau ny àsmé ánu pū́rvāṇi cakhyathur yugā́ni ||
Most intimately, O gods, in the plants and in the waters you attain the things fit to be won by the seers. You place many treasures within us, and you make us see in sequence the earlier ages—so that the ancient workings become knowledge for the present journey.
च॒नि॒ष्टम् । दे॒वौ॒ । ओष॑धीषु । अ॒प्ऽसु । यत् । यो॒ग्याः । अ॒श्नवै॑थे॒ इति॑ । ऋषी॑णाम् । पु॒रूणि॑ । रत्ना॑ । दध॑तौ । नि । अ॒स्मे इति॑ । अनु॑ । पूर्वा॑णि । च॒ख्य॒थुः॒ । यु॒गानि॑ ॥चनिष्टम् । देवौ । ओषधीषु । अप्सु । यत् । योग्याः । अश्नवैथे इति । ऋषीणाम् । पुरूणि । रत्ना । दधतौ । नि । अस्मे इति । अनु । पूर्वाणि । चख्यथुः । युगानि ॥caniṣṭam | devau | oṣadhīṣu | ap-su | yat | yogyāḥ | aśnavaitheiti | ṛṣīṇām | purūṇi | ratnā | dadhatau | ni | asme iti | anu | pūrvāṇi | cakhyathuḥ | yugāni