Sukta 7.70
यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु । नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥
यानि॒ स्थाना॑न्यश्विना द॒धाथे॑ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु । नि पर्व॑तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना॑य दा॒शुषे॒ वह॑न्ता ॥
yā́ni sthā́nāny aśvinā dadhā́the divó yahvī́ṣv óṣadhīṣu vikṣú | ní párvatasya mū́rdhani sádantā íṣaṃ jánāya dāśúṣe váhantā ||
Whatever stations you establish, O Aśvins—whether in the wide-ranging heights of heaven, in the plants of healing, or among the peoples—seated upon the mountain’s summit, you carry the impulsion of plenitude to the human being who gives the offering.
यानि॑ । स्थाना॑नि । अ॒श्वि॒ना॒ । द॒धाथे॒ इति॑ । दि॒वः । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु । नि । पर्व॑तस्य । मू॒र्धनि॑ । सद॑न्ता । इष॑म् । जना॑य । दा॒शुषे॑ । वह॑न्ता ॥यानि । स्थानानि । अश्विना । दधाथे इति । दिवः । यह्वीषु । ओषधीषु । विक्षु । नि । पर्वतस्य । मूर्धनि । सदन्ता । इषम् । जनाय । दाशुषे । वहन्ता ॥yāni | sthānāni | aśvinā | dadhātheiti | divaḥ | yahvīṣu | oṣadhīṣu | vikṣu | ni | parvatasya | mūrdhani | sadantā | iṣam | janāya | dāśuṣe | vahantā