Sukta 7.70
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे । यो वां समुद्रान्त्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥
सिष॑क्ति॒ सा वां॑ सुम॒तिश्चनि॒ष्ठाता॑पि घ॒र्मो मनु॑षो दुरो॒णे । यो वां॑ समु॒द्रान्त्स॒रित॒: पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा॑ युजा॒नः ॥
síṣakti sā́ vāṃ sumatíś caniṣṭhā́tāpi gharmó mánuṣo duroṇé | yó vāṃ samudrā́nt sarítaḥ pípārty etágvā cit na suyújā yujānáḥ ||
That happiest right-mindedness of yours attaches itself to us; the inner heat is kindled in the human dwelling. He who for you fills the oceans and the rivers—he yokes even the swift ones into a perfect joining, leaving nothing ill-harnessed.
सिस॑क्ति । सा । वा॒म् । सु॒ऽम॒तिः । चनि॑ष्ठा । अता॑पि । घ॒र्मः । मनु॑षः । दु॒रो॒णे । यः । वा॒म् । स॒मु॒द्रान् । स॒रितः॑ । पिप॑र्ति । एत॑ऽग्वा । चि॒त् । न । सु॒ऽयुजा॑ । यु॒जा॒नः ॥सिसक्ति । सा । वाम् । सुमतिः । चनिष्ठा । अतापि । घर्मः । मनुषः । दुरोणे । यः । वाम् । समुद्रान् । सरितः । पिपर्ति । एतग्वा । चित् । न । सुयुजा । युजानः ॥sisakti | sā | vām | su-matiḥ | caniṣṭhā | atāpi | gharmaḥ | manuṣaḥ | duroṇe | yaḥ | vām | samudrān | saritaḥ | piparti | eta-gvā | cit | na | su-yujā | yujānaḥ