Sukta 7.69
युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः । पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥
यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रय॑न्ता ॥
yuváṃ bhujyúm ávaviddhaṃ samudrá úd ūhathur árṇaso ásridhānaiḥ | patatríbhir aśramáir avyathíbhir daṃsanā́bhir aśvinā pāráyantā ||
You two, the Aśvins, lifted up Bhujyu who had been cast down into the ocean; out of the flood you bore him by your unfailing supports—by winged powers that do not tire and do not waver—carrying him across by your acts of luminous skill.
यु॒वम् । भु॒ज्युम् । अव॑ऽविद्धम् । स॒मु॒द्रे । उत् । ऊ॒ह॒थुः॒ । अर्ण॑सः । अस्रि॑धानैः । प॒त॒त्रिऽभिः॑ । अ॒श्र॒मैः । अ॒व्य॒थिऽभिः॑ । दं॒सना॑भिः । अ॒श्वि॒ना॒ । पा॒रय॑न्ता ॥युवम् । भुज्युम् । अवविद्धम् । समुद्रे । उत् । ऊहथुः । अर्णसः । अस्रिधानैः । पतत्रिभिः । अश्रमैः । अव्यथिभिः । दंसनाभिः । अश्विना । पारयन्ता ॥yuvam | bhujyum | ava-viddham | samudre | ut | ūhathuḥ | arṇasaḥ | asridhānaiḥ | patatri-bhiḥ | aśramaiḥ | avyathi-bhiḥ | daṃsanābhiḥ | aśvinā | pārayantā