Sukta 7.69
नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् । धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥
नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
nū́ me hávam ā́ śṛṇutaṃ yuvānā yāsiṣṭaṃ vártír aśvināv írāvat | dhattáṃ rátnāni járataṃ ca sūrīn yūyáṃ pāta svastíbhiḥ sádā naḥ ||
Now hear my call, O young Aśvins; come by the most direct path rich in abundance. Place in us the treasures, and cherish the seers who grow in the work; you too guard us always with your forces of well-being.
नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॑ । इरा॑ऽवत् । ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इरावत् । धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥nu | me | havam | ā | śṛṇutam | yuvānā | yāsiṣṭam | vartiḥ | aśvinau | irāvat | dhattam | ratnāni | jaratam | ca | sūrīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ