Sukta 7.69
नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् । पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः ॥
नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातम् । पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हव॑न्ते॒ मा वा॑म॒न्ये नि य॑मन्देव॒यन्त॑: ॥
nárā gauréva vidyútaṃ tṛṣāṇā́smā́kam adyá savanópa yātam | purutrā́ hí vām matíbhiḥ hávante mā́ vām anyé ní yamann deva-yántaḥ ||
O lords, like a bull’s lightning-flash, thirsting, come today to our pressing. For many are they who call you with their thoughts; let not other god-seekers hold you back from us.
नरा॑ । गौ॒राऽइ॑व । वि॒ऽद्युत॑म् । तृ॒षा॒णा । अ॒स्माक॑म् । अ॒द्य । सव॑ना । उप॑ । या॒त॒म् । पु॒रु॒ऽत्रा । हि । वा॒म् । म॒तिऽभिः॑ । हव॑न्ते । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ ॥नरा । गौराइव । विद्युतम् । तृषाणा । अस्माकम् । अद्य । सवना । उप । यातम् । पुरुत्रा । हि । वाम् । मतिभिः । हवन्ते । मा । वाम् । अन्ये । नि । यमन् । देवयन्तः ॥narā | gaurāiva | vi-dyutam | tṛṣāṇā | asmākam | adya | savanā | upa | yātam | puru-trā | hi | vām | mati-bhiḥ | havante | mā | vām | anye | ni | yaman | deva-yantaḥ