Sukta 7.69
यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥
यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः । तेन॑ न॒: शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥
yó ha syá vām rathirā́ vásata usrā́ rátho yujānó páriyāti vartíḥ | ténā naḥ śáṃ yór uṣáso vyùṣṭau ny aśvinā vahatam yajñé asmín ||
That chariot of yours, harnessed, moves about at the dwelling of the shining Dawns. By that, bring us peace and a wide gladness at the dawning’s opening; O Aśvins, carry yourselves down into this sacrifice.
यः । ह॒ । स्यः । वा॒म् । र॒थि॒रा॒ । वस्ते॑ । उ॒स्राः । रथः॑ । यु॒जा॒नः । प॒रि॒ऽयाति॑ । व॒र्तिः । तेन॑ । नः॒ । शम् । योः । उ॒षसः॑ । विऽउ॑ष्टौ । नि । अ॒श्वि॒ना॒ । व॒ह॒त॒म् । य॒ज्ञे । अ॒स्मिन् ॥यः । ह । स्यः । वाम् । रथिरा । वस्ते । उस्राः । रथः । युजानः । परियाति । वर्तिः । तेन । नः । शम् । योः । उषसः । विउष्टौ । नि । अश्विना । वहतम् । यज्ञे । अस्मिन् ॥yaḥ | ha | syaḥ | vām | rathirā | vaste | usrāḥ | rathaḥ | yujānaḥ | pari-yāti | vartiḥ | tena | naḥ | śam | yoḥ | uṣasaḥ | vi-uṣṭau | ni | aśvinā | vahatam | yajñe | asmin