Sukta 7.69
युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् । यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥
यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायाम् । यद्दे॑व॒यन्त॒मव॑थ॒: शची॑भि॒: परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥
yuvóḥ śríyaṃ pári yóṣāvṛṇīta sū́ro duhitā́ pári-takmyāyām | yád deva-yántam ávathaḥ śacī́bhiḥ pári ghraṃsám omanā́ vām váyo gāt ||
Around your splendor the maiden chose herself—the daughter of the Sun—in her circling movement. When you aided the god-seeking one with your efficacies, then by your favoring thought your vital power went around the burning heat and passed beyond it.
यु॒वोः । श्रिय॑म् परि॑ । योषा॑ । अ॒वृ॒णी॒त॒ । सूरः॑ । दु॒हि॒ता । परि॑ऽतक्म्यायाम् । यत् । दे॒व॒ऽयन्त॑म् । अव॑थः । शची॑भिः । परि॑ । घ्रं॒सम् । ओ॒मना॑ । वा॒म् । वयः॑ । गा॒त् ॥युवोः । श्रियम् परि । योषा । अवृणीत । सूरः । दुहिता । परितक्म्यायाम् । यत् । देवयन्तम् । अवथः । शचीभिः । परि । घ्रंसम् । ओमना । वाम् । वयः । गात् ॥yuvoḥ | śriyam pari | yoṣā | avṛṇīta | sūraḥ | duhitā | pari-takmyāyām | yat | deva-yantam | avathaḥ | śacībhiḥ | pari | ghraṃsam | omanā | vām | vayaḥ | gāt