Sukta 7.69
स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः । वि वां रथो वध्वा यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम् ॥
स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः । वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् ॥
sváśvā yaśásā yātam arvā́g dasrā nidʰíṃ mádhumantaṃ pibāthaḥ | ví vām rátho vadhvā́ yā́damāno’ntā́n divó bādhate vartaníbhyām ||
Come here with your good horses, O mighty ones, in your glory; drink the honeyed treasure. Your chariot, moving with the bride (the joining power), breaks open the ends of heaven by its two tracks—making a passage for the ascent.
सु॒ऽअश्वा॑ । य॒शसा॑ । आ । या॒त॒म् । अ॒र्वाक् । दस्रा॑ । नि॒ऽधिम् । मधु॑ऽमन्तम् । पि॒बा॒थः॒ । वि । वा॒म् । रथः॑ । व॒ध्वा॑ । याद॑मानः । अन्ता॑न् । दि॒वः । बा॒ध॒ते॒ । व॒र्त॒निऽभ्या॑म् ॥सुअश्वा । यशसा । आ । यातम् । अर्वाक् । दस्रा । निधिम् । मधुमन्तम् । पिबाथः । वि । वाम् । रथः । वध्वा । यादमानः । अन्तान् । दिवः । बाधते । वर्तनिभ्याम् ॥su-aśvā | yaśasā | ā | yātam | arvāk | dasrā | ni-dhim | madhu-mantam | pibāthaḥ | vi | vām | rathaḥ | vadhvā | yādamānaḥ | antān | divaḥ | bādhate | vartani-bhyām