Sukta 7.69
स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना ॥
स प॑प्रथा॒नो अ॒भि पञ्च॒ भूमा॑ त्रिवन्धु॒रो मन॒सा या॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्ती॒: कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥
sá paprathānó abhí páñca bhū́mā tri-vandhuró manasā́ yātú yuktáḥ | víśo yéna gácchatho deva-yántīḥ kútrā cid yā́mam aśvinā dádhānā ||
Let that chariot, spread wide over the five domains, triple-seated, yoked by the mind, move. By it you go to the peoples that seek the Divine; wherever you place your journeying, O Aśvins, there you become present.
सः । प॒प्र॒था॒नः । अ॒भि । पञ्च॑ । भूम॑ । त्रि॒ऽव॒न्धु॒रः । म॒न॒सा । या॒तु॒ । यु॒क्तः । विशः॑ । येन॑ । गच्छ॑थः । दे॒व॒ऽयन्तीः॑ । कुत्र॑ । चि॒त् । याम॑म् । अ॒श्वि॒ना॒ । दधा॑ना ॥सः । पप्रथानः । अभि । पञ्च । भूम । त्रिवन्धुरः । मनसा । यातु । युक्तः । विशः । येन । गच्छथः । देवयन्तीः । कुत्र । चित् । यामम् । अश्विना । दधाना ॥saḥ | paprathānaḥ | abhi | pañca | bhūma | tri-vandhuraḥ | manasā | yātu | yuktaḥ | viśaḥ | yena | gacchathaḥ | deva-yantīḥ | kutra | cit | yāmam | aśvinā | dadhānā