Sukta 7.69
आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः । घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥
आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वै॑: । घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥
ā́ vām rátho ródasī badbadhānó hiraṇyáyo vṛ́ṣabhir yātú aśváīḥ | ghṛtávartaniḥ pavíbhiḥ rucānó iṣā́ṃ voḷhā́ nṛpátir vājinī́vān ||
Let your chariot come—binding together Heaven and Earth—golden, drawn by strong stallions; moving on paths of clarified light, shining with its powers: a carrier of the impulsion of force, a lord of the human journey, rich in plenitudes.
आ । वा॒म् । रथः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धा॒नः । हि॒र॒ण्ययः॑ । वृष॑ऽभिः । या॒तु॒ । अश्वैः॑ । घृ॒तऽव॑र्तनिः । प॒विऽभिः॑ । रु॒चा॒नः । इ॒षाम् । वो॒ळ्हा । नृ॒ऽपतिः॑ । वा॒जिनी॑ऽवान् ॥आ । वाम् । रथः । रोदसी इति । बद्बधानः । हिरण्ययः । वृषभिः । यातु । अश्वैः । घृतवर्तनिः । पविभिः । रुचानः । इषाम् । वोळ्हा । नृपतिः । वाजिनीवान् ॥ā | vām | rathaḥ | rodasī iti | badbadhānaḥ | hiraṇyayaḥ | vṛṣa-bhiḥ | yātu | aśvaiḥ | ghṛta-vartaniḥ | pavi-bhiḥ | rucānaḥ | iṣām | voḷhā | nṛ-patiḥ | vājinī-vān