Sukta 7.68
वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना । यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥
वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना । याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥
vṛ́kāya cid jásamānāya śaktam utá śrutáṃ śayáve hūyámānā | yā́v aghnyā́m ápinvatam apó ná staryáṃ cic chakty àśvinā śacī́bhiḥ ||
Even for the wolf (the tearing force) you were power to one who was being consumed; and you heard the call of Śayava when he was invoked. You made the un-slain Cow swell with her milk—like waters released—and by your effective powers, O Aśvins, you made possible even what seemed impossible.
वृका॑य । चि॒त् । जस॑मानाय । श॒क्त॒म् । उ॒त । श्रु॒त॒म् । श॒यवे॑ । हू॒यमा॑ना । यौ । अ॒घ्न्याम् । अपि॑न्वतम् । अ॒पः । न । स्त॒र्य॑म् । चि॒त् । श॒क्ती । अ॒श्वि॒ना॒ । शची॑भिः ॥वृकाय । चित् । जसमानाय । शक्तम् । उत । श्रुतम् । शयवे । हूयमाना । यौ । अघ्न्याम् । अपिन्वतम् । अपः । न । स्तर्यम् । चित् । शक्ती । अश्विना । शचीभिः ॥vṛkāya | cit | jasamānāya | śaktam | uta | śrutam | śayave | hūyamānā | yau | aghnyām | apinvatam | apaḥ | na | staryam | cit | śaktī | aśvinā | śacībhiḥ