Sukta 7.68
एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा । इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः ॥
ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे॑ बुधा॒न उ॒षसां॑ सु॒मन्मा॑ । इ॒षा तं व॑र्धद॒घ्न्या पयो॑भिर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
eṣá syá kārúḥ jarate sūktáir ágre budhāná uṣásāṃ sumánmā | iṣā́ táṃ vardhad aghnyā́ páyobhir yūyáṃ pāta svastíbhiḥ sádā naḥ ||
This singer indeed grows by the true hymns, awakening in front, with a good mind toward the Dawns. May the inviolate Cow increase him with her milk of fullness; and you, O Aśvins, guard us always with your harmonies of well-being.
ए॒षः । स्यः । का॒रुः । ज॒र॒ते॒ । सु॒ऽउ॒क्तैः । अग्रे॑ । बु॒धा॒नः । उ॒षसा॑म् । सु॒ऽमन्मा॑ । इ॒षा । तम् । व॒र्ध॒त् । अ॒घ्न्या । पयः॑ऽभिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एषः । स्यः । कारुः । जरते । सुउक्तैः । अग्रे । बुधानः । उषसाम् । सुमन्मा । इषा । तम् । वर्धत् । अघ्न्या । पयःभिः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥eṣaḥ | syaḥ | kāruḥ | jarate | su-uktaiḥ | agre | budhānaḥ | uṣasām | su-manmā | iṣā | tam | vardhat | aghnyā | payaḥ-bhiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ