Sukta 7.68
उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे । निरीं पर्षदरावा यो युवाकुः ॥
उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा॑यो॒ मध्ये॑ जहुर्दु॒रेवा॑सः समु॒द्रे । निरीं॑ पर्ष॒दरा॑वा॒ यो यु॒वाकु॑: ॥
utá tyáṃ bhujyúm aśvinā sakhā́yo mádhye jahur durévāsaḥ samudré | nír ī́ṃ parṣad árāvā yó yuvā́kuḥ ||
And that Bhujyu too—whom ill-housed companions abandoned in mid-ocean—him the far-ranged call of the youthful one bore out to safety; thus do you, O Aśvins, draw the soul out from the engulfing waters.
उ॒त । त्यम् । भु॒ज्युम् । अ॒श्वि॒ना॒ । सखा॑यः । मध्ये॑ । जु॒हुः॒ । दुः॒ऽएवा॑सः । स॒मु॒द्रे । निः । ई॒म् । प॒र्ष॒त् । अरा॑वा । यः । यु॒वाकुः॑ ॥उत । त्यम् । भुज्युम् । अश्विना । सखायः । मध्ये । जुहुः । दुःएवासः । समुद्रे । निः । ईम् । पर्षत् । अरावा । यः । युवाकुः ॥uta | tyam | bhujyum | aśvinā | sakhāyaḥ | madhye | juhuḥ | duḥ-evāsaḥ | samudre | ni ḥ | īm | parṣat | arāvā | yaḥ | yuvākuḥ