Sukta 7.68
उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे । अधि यद्वर्प इतऊति धत्थः ॥
उ॒त त्यद्वां॑ जुर॒ते अ॑श्विना भू॒च्च्यवा॑नाय प्र॒तीत्यं॑ हवि॒र्दे । अधि॒ यद्वर्प॑ इ॒तऊ॑ति ध॒त्थः ॥
utá tyád vām juraté aśvinā bhū́c cyávānāya pratī́tyaṃ havirdé | adhí yád várpa itá-ū́ti dhattháḥ ||
And that too became a thing of your growing power, O Aśvins: the offering that awakens the return-movement for Cyavāna; for you set upon him the radiant form by your help coming from here (from our human field).
उ॒त । त्यत् । वा॒म् । जु॒र॒ते । आ॒श्वि॒ना॒ । भू॒त् । च्यवा॑नाय । प्र॒तीत्य॑म् । ह॒विः॒ऽदे । अधि॑ । यत् । वर्पः॑ । इ॒तःऽऊ॑ति । ध॒त्थः ॥उत । त्यत् । वाम् । जुरते । आश्विना । भूत् । च्यवानाय । प्रतीत्यम् । हविःदे । अधि । यत् । वर्पः । इतःऊति । धत्थः ॥uta | tyat | vām | jurate | āśvinā | bhūt | cyavānāya | pratītyam | haviḥ-de | adhi | yat | varpaḥ | itaḥ-ūti | dhatthaḥ