Sukta 7.68
अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्याम् । आ वल्गू विप्रो ववृतीत हव्यैः ॥
अ॒यं ह॒ यद्वां॑ देव॒या उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्या॑म् । आ व॒ल्गू विप्रो॑ ववृतीत ह॒व्यैः ॥
ayáṃ ha yád vāṃ deva-yā́ u adrír ūrdhvó vívakti soma-súd yuvábhyām | ā́ valgū́ vipró vavṛtīta havyáiḥ ||
This indeed—when the god-seeking pressing-stone is lifted upright—releases the Soma for you two. The fair-aspiring seer turns toward you with his offerings.
अ॒यम् । ह॒ । यत् । वा॒म् । दे॒व॒ऽयाः । ऊँ॒ इति॑ । अद्रिः॑ । ऊ॒र्ध्वः । विव॑क्ति । सो॒म॒ऽसुत् । यु॒वभ्या॑म् । आ । व॒ल्गू इति॑ । विप्रः॑ । व॒वृ॒ती॒त॒ । ह॒व्यैः ॥अयम् । ह । यत् । वाम् । देवयाः । ऊँ इति । अद्रिः । ऊर्ध्वः । विवक्ति । सोमसुत् । युवभ्याम् । आ । वल्गू इति । विप्रः । ववृतीत । हव्यैः ॥ayam | ha | yat | vām | deva-yāḥ | oṃ iti | adriḥ | ūrdhvaḥ | vivakti | soma-sut | yuvabhyām | ā | valgū iti | vipraḥ | vavṛtīta | havyaiḥ