Sukta 7.68
प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः । अस्मभ्यं सूर्यावसू इयानः ॥
प्र वां॒ रथो॒ मनो॑जवा इयर्ति ति॒रो रजां॑स्यश्विना श॒तोति॑: । अ॒स्मभ्यं॑ सूर्यावसू इया॒नः ॥
prá vāṃ rátho máno-javā iyarti tiró rájāṃsy aśvinā śatá-ūtiḥ | asmábhyaṃ sūryāvasū iyānáḥ ||
Your chariot, swift as thought, is set in motion, passing beyond the mid-regions, O Ashvins of a hundred helps, advancing toward us, O bringers of the Sun’s riches.
प्र । वा॒म् । रथः॑ । मनः॑ऽजवा । इ॒य॒र्ति॒ । ति॒रः । रजां॑सि । अ॒श्वि॒ना॒ । श॒तऽऊ॑तिः । अ॒स्मभ्य॑म् । सू॒र्या॒व॒सू॒ इति॑ । इ॒या॒नः ॥प्र । वाम् । रथः । मनःजवा । इयर्ति । तिरः । रजांसि । अश्विना । शतऊतिः । अस्मभ्यम् । सूर्यावसू इति । इयानः ॥pra | vām | rathaḥ | manaḥ-javā | iyarti | tiraḥ | rajāṃsi | aśvinā | śata-ūtiḥ | asmabhyam | sūryāvasūiti | iyānaḥ