Sukta 7.68
प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे । तिरो अर्यो हवनानि श्रुतं नः ॥
प्र वा॒मन्धां॑सि॒ मद्या॑न्यस्थु॒ररं॑ गन्तं ह॒विषो॑ वी॒तये॑ मे । ति॒रो अ॒र्यो हव॑नानि श्रु॒तं न॑: ॥
prá vāṃ ándhāṃsi mádyāny asthur áraṃ gantaṃ havíṣo vītáye me | tiró aryó hávanāni śrutáṃ naḥ ||
Before you are set the intoxicating draughts; come swiftly for the enjoyment of my offering. Hear our call even from beyond the stranger’s boundary.
प्र । वा॒म् । अन्धां॑सि । मद्या॑नि । अ॒स्थुः॒ । अर॑म् । ग॒न्त॒म् । ह॒विषः॑ । वी॒तये॑ । मे॒ । ति॒रः । अ॒र्यः । हव॑नानि । श्रु॒तम् । नः॒ ॥प्र । वाम् । अन्धांसि । मद्यानि । अस्थुः । अरम् । गन्तम् । हविषः । वीतये । मे । तिरः । अर्यः । हवनानि । श्रुतम् । नः ॥pra | vām | andhāṃsi | madyāni | asthuḥ | aram | gantam | haviṣaḥ | vītaye | me | t iraḥ | aryaḥ | havanāni | śrutam | naḥ