Sukta 7.68
आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः । हव्यानि च प्रतिभृता वीतं नः ॥
आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो॑ दस्रा जुजुषा॒णा यु॒वाको॑: । ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं न॑: ॥
ā́ śubhrā yātam aśvinā sváśvā gíro dasrā jujuṣāṇā yuvā́koḥ | havyā́ni ca práti-bhṛtā vītaṃ naḥ ||
Come, O radiant Ashvins with your own strong steeds; O wondrous ones, accept the mantras of the youthful seeker. And bearing the offerings in return, take your seat with us in the sacrificial sharing.
आ । शु॒भ्रा॒ । या॒त॒म् । अ॒श्वि॒ना॒ । सु॒ऽअश्वा॑ । गिरः॑ । द॒स्रा॒ । जु॒जु॒षा॒णा । यु॒वाकोः॑ । ह॒व्यानि॑ । च॒ । प्रति॑ऽभृता । वी॒तम् । नाः॒ ॥आ । शुभ्रा । यातम् । अश्विना । सुअश्वा । गिरः । दस्रा । जुजुषाणा । युवाकोः । हव्यानि । च । प्रतिभृता । वीतम् । नाः ॥ā | śubhrā | yātam | aśvinā | su-aśvā | giraḥ | dasrā | jujuṣāṇā | yuvākoḥ | havyāni | ca | prati-bhṛtā | vītam | nāḥ