Sukta 7.67
एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् । न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥
एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् । न वा॑यन्ति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वह॑न्ति ॥
ékasmin yóge bhuraṇā samāné pári vāṃ saptá sraváto rátho gāt | ná vāyanti su-bhváḥ deva-yúktā yé vāṃ dhū́rṣu taraṇáyo váhanti ||
In one single yoking, in the same movement of power, your chariot goes encompassing the seven streams. The well-founded, god-yoked steeds do not slacken, those swift bearers who carry you on the yoke-poles.
एक॑स्मिन् । योगे॑ । भु॒र॒णा॒ । स॒मा॒ने । परि॑ । वाम् । स॒प्त । स्र॒वतः॑ । रथः॑ । गा॒त् । न । वा॒य॒न्ति॒ । सु॒ऽभ्वः॑ । दे॒वऽयु॑क्ताः । ये । वा॒म् । धूः॒ऽसु । त॒रण॑यः । वह॑न्ति ॥एकस्मिन् । योगे । भुरणा । समाने । परि । वाम् । सप्त । स्रवतः । रथः । गात् । न । वायन्ति । सुभ्वः । देवयुक्ताः । ये । वाम् । धूःसु । तरणयः । वहन्ति ॥ekasmin | yoge | bhuraṇā | samāne | pari | vām | sapta | sravataḥ | rathaḥ | gāt | na | vāyanti | su-bhvaḥ | deva-yuktāḥ | ye | vām | dhūḥ-su | taraṇayaḥ | vahanti