Sukta 7.67
एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे । अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥
ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे । अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नन्ता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥
eṣá sya vāṃ pū́rvagatveva sákhye ni-dhír hitó mādhvī́ rā́to asmḗ | áheḷatā mánasā yātam arvā́g aśnántā havyáṃ mā́nuṣīṣu víkṣu ||
This indeed is your ancient treasure laid down in the friendship of your first-coming: the honeyed delight you have granted to us. Come near with a mind that bears no anger, and partake of the offering among the human peoples.
ए॒षः । स्यः । वा॒म् । पू॒र्व॒गत्वा॑ऽइव । सख्ये॑ । नि॒ऽधिः । हि॒तः । मा॒ध्वी॒ इति॑ । रा॒तः । अ॒स्मे इति॑ । अहे॑ळता । मन॑सा । या॒त॒म् । अ॒र्वाक् । अ॒श्नन्ता॑ । ह॒व्यम् । मानु॑षीषु । वि॒क्षु ॥एषः । स्यः । वाम् । पूर्वगत्वाइव । सख्ये । निधिः । हितः । माध्वी इति । रातः । अस्मे इति । अहेळता । मनसा । यातम् । अर्वाक् । अश्नन्ता । हव्यम् । मानुषीषु । विक्षु ॥eṣaḥ | syaḥ | vām | pūrvagatvāiva | sakhye | ni-dhiḥ | hitaḥ | mādhvī iti | rātaḥ | asme iti | aheḷatā | manasā | yātam | arvāk | aśnantā | havyam | mānuṣīṣu | vikṣu