Sukta 7.67
असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति । प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥
अ॒स॒श्चता॑ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं॑ जु॒नन्ति॑ । प्र ये बन्धुं॑ सू॒नृता॑भिस्ति॒रन्ते॒ गव्या॑ पृ॒ञ्चन्तो॒ अश्व्या॑ म॒घानि॑ ॥
asaścátā maghávad-bhyo hí bhū́taṃ yé rāyā́ magha-déyaṃ junánti | prá yé bándhuṃ sūnṛ́tābhis tiránte gavyā́ pṛñcánto aśvyā́ maghā́ni ||
Be inseparable from the bounteous, for they are those who by their plenitude set the gift of abundance in motion. They who extend the bond by words of truth and harmony, who mix the largesses—rays of Light and energies of the steed—into the offerings of increase.
अ॒स॒श्चता॑ । म॒घव॑त्ऽभ्यः । हि । भू॒तम् । ये । रा॒या । म॒घ॒ऽदेय॑म् । जु॒नन्ति॑ । प्र । ये । बन्धु॑म् । सू॒नृता॑भिः । ति॒रन्ते॑ । गव्या॑ । पृ॒ञ्चन्तः॑ । अश्व्या॑ । म॒घानि॑ ॥असश्चता । मघवत्भ्यः । हि । भूतम् । ये । राया । मघदेयम् । जुनन्ति । प्र । ये । बन्धुम् । सूनृताभिः । तिरन्ते । गव्या । पृञ्चन्तः । अश्व्या । मघानि ॥asaścatā | maghavat-bhyaḥ | hi | bhūtam | ye | rāyā | magha-deyam | junanti | pra | ye | bandhum | sūnṛtābhiḥ | tirante | gavyā | pṛñcantaḥ | aśvyā | maghāni