Sukta 7.67
अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु । आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥
अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु । आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥
aviṣṭáṃ dhīṣv aśvinā na ā́su prajā́vad réto áhrayaṃ no astu | ā́ vāṃ toké tánaye tū́tujānāḥ su-rátnāso deva-vī́tiṃ gamema ||
O Ashvins, may there be in our inner powers a protected and unharmed creative seed, rich in the force of new becoming. Urged forward toward you in our child and in our growing soul, may we, made opulent with luminous treasures, attain the god-led path of your divine enjoyment and guidance.
अ॒वि॒ष्टम् । धी॒षु । अ॒श्वि॒ना॒ । नः॒ । आ॒सु । प्र॒जाऽव॑त् । रेतः॑ । अह्र॑यम् । नः॒ । अ॒स्तु॒ । आ । वा॒म् । तो॒के । तन॑ये । तूतु॑जानाः । सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ ॥अविष्टम् । धीषु । अश्विना । नः । आसु । प्रजावत् । रेतः । अह्रयम् । नः । अस्तु । आ । वाम् । तोके । तनये । तूतुजानाः । सुरत्नासः । देववीतिम् । गमेम ॥aviṣṭam | dhīṣu | aśvinā | naḥ | āsu | prajāvat | retaḥ | ahrayam | naḥ | astu | ā | vām | toke | tanaye | tūtujānāḥ | su-ratnāsaḥ | deva-vītim | gamema