Sukta 7.67
प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् । विश्वा अविष्टं वाज आ पुरंधीस्ता नः शक्तं शचीपती शचीभिः ॥
प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युम् । विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता न॑: शक्तं शचीपती॒ शची॑भिः ॥
prā́cīm u devāśvinā dhíyaṃ mé'mṛ́dhrāṃ sātáye kṛtaṃ vasūyúm | víśvā aviṣṭaṃ vā́ja ā́ púraṃdhīs tā́ naḥ śaktaṃ śacīpatī śácībhiḥ ||
Send forward, O divine Aśvins, my thought—unharmed and straight—for the winning, made eager for plenitude. Guard all our powers of increase in the plenitude of force; then be able for us, O lords of effective energy, by your efficacies.
प्राची॑म् । ऊँ॒ इति॑ । दे॒वा॒ । अ॒श्वि॒ना॒ । धिय॑म् । मे॒ । अमृ॑ध्राम् । सा॒तये॑ । कृ॒त॒म् । व॒सु॒ऽयुम् । विश्वाः॑ । अ॒वि॒ष्ट॒म् । वाजे॑ । आ । पुर॑म्ऽधीः । ता । नः॒ । श॒क्त॒म् । श॒ची॒प॒ती॒ इति॑ शचीऽपती । शची॑भिः ॥प्राचीम् । ऊँ इति । देवा । अश्विना । धियम् । मे । अमृध्राम् । सातये । कृतम् । वसुयुम् । विश्वाः । अविष्टम् । वाजे । आ । पुरम्धीः । ता । नः । शक्तम् । शचीपती इति शचीपती । शचीभिः ॥prācīm | oṃ iti | devā | aśvinā | dhiyam | me | amṛdhrām | sātaye | kṛtam | vasu-yum | viśvāḥ | aviṣṭam | vāje | ā | puram-dhīḥ | tā | naḥ | śaktam | śacīpatī itiśacī-patī | śacībhiḥ