Sukta 7.67
अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् । पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥
अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमै॑: सिषक्ति नासत्या विव॒क्वान् । पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥
abhí vāṃ nū́nam aśvinā suhotā́ stómaiḥ siṣakti nā́satyā vivakvā́n | pūrvī́bhir yātaṃ pathyā́bhir arvā́k svaḥvidā́ vásumatā ráthenā ||
Now the good-offering priest presses toward you with hymns, O Aśvins, O Nāsatyas, speaking forth. Come from of old by the rightful paths, hitherward, with the chariot that finds the Sun-world, rich in plenitude.
अ॒भि । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । सुऽहो॑ता । स्तोमैः॑ । सि॒स॒क्ति॒ । ना॒स॒त्या॒ । वि॒व॒क्वान् । पू॒र्वीभिः॑ । या॒त॒म् । प॒थ्या॑भिः । अ॒र्वाक् । स्वः॒ऽविदा॑ । वसु॑ऽमता । रथे॑न ॥अभि । वाम् । नूनम् । अश्विना । सुहोता । स्तोमैः । सिसक्ति । नासत्या । विवक्वान् । पूर्वीभिः । यातम् । पथ्याभिः । अर्वाक् । स्वःविदा । वसुमता । रथेन ॥abhi | vām | nūnam | aśvinā | su-hotā | stomaiḥ | sisakti | nāsatyā | vivakvān | pūrvībhiḥ | yātam | pathyābhiḥ | arvāk | svaḥ-vidā | vasu-matā | rathena