Sukta 7.67
अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः । अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥
अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्र॒न्तम॑सश्चि॒दन्ता॑: । अचे॑ति के॒तुरु॒षस॑: पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥
áśoci agníḥ samidhānáḥ asmē úpo adṛśran támasas cid ántāḥ | áceti ketúr uṣásaḥ purástāc chríye divó duhitur jā́yamānaḥ ||
Agni has shone, kindled in us; even the boundaries of darkness became visible. The sign of Dawn is discerned in front, being born for the glory of the Daughter of Heaven.
अशो॑चि । अ॒ग्निः । स॒म्ऽइ॒धा॒नः । अ॒स्मे इति॑ । उपो॒ इति॑ । अ॒दृ॒श्र॒न् । तम॑सः । चि॒त् । अन्ताः॑ । अचे॑ति । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । श्रि॒ये । दि॒वः । दु॒हि॒तुः । जाय॑मानः ॥अशोचि । अग्निः । सम्इधानः । अस्मे इति । उपो इति । अदृश्रन् । तमसः । चित् । अन्ताः । अचेति । केतुः । उषसः । पुरस्तात् । श्रिये । दिवः । दुहितुः । जायमानः ॥aśoci | agniḥ | sam-idhānaḥ | asme iti | upo iti | adṛśran | tamasaḥ | cit | antāḥ | aceti | ketuḥ | uṣasaḥ | purastāt | śriye | d ivaḥ | duhituḥ | jāyamānaḥ