Sukta 7.67
प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन । यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥
प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न । यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥
práti vāṃ ráthaṃ nṛpatī jaradhyái havíṣmatā mánasā yajñíyena | yó vāṃ dū́to ná dhiṣṇyā́v ajī́gar acchā́ sūnúr ná pitarā́ vivakmi ||
Toward your chariot, O lords of men, I set my thought with the offering-mind for your glad receiving. As a messenger to the two firm seats I speed; like a son to his parents I speak out to you.
प्रति॑ । वा॒म् । रथ॑म् । नृ॒प॒ती॒ऽ इति॑ नृऽपती । ज॒रध्यै॑ । ह॒विष्म॑ता । मन॑सा । य॒ज्ञिये॑न । यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी॑गः । अच्छ॑ । सू॒नुः । न । पि॒तरा॑ । वि॒व॒क्मि॒ ॥प्रति । वाम् । रथम् । नृपती इति नृपती । जरध्यै । हविष्मता । मनसा । यज्ञियेन । यः । वाम् । दूतः । न । धिष्ण्यौ । अजीगः । अच्छ । सूनुः । न । पितरा । विवक्मि ॥prati | vām | ratham | nṛpatī- itinṛ-patī | jaradhyai | haviṣmatā | manasā | yajñiyena | yah | vām | dūtaḥ | na | dhiṣṇyau | ajīgaḥ | accha | sūnuḥ | na | pitarā | vivakmi