Sukta 7.66
राया हिरण्यया मतिरियमवृकाय शवसे । इयं विप्रा मेधसातये ॥
रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से । इ॒यं विप्रा॑ मे॒धसा॑तये ॥
rāyā́ hiraṇyáyā matír iyám avṛkā́ya śávase | iyáṃ víprā medhásātaye ||
This thought is a golden plenitude of being, for the strength that is un-wolfed by division; this inspired utterance is for the winning of luminous intelligence.
रा॒या । हि॒र॒ण्य॒ऽया । म॒तिः । इ॒यम् । अ॒वृ॒काय॑ । शव॑से । इ॒यम् । विप्रा॑ । मे॒धऽसा॑तये ॥राया । हिरण्यया । मतिः । इयम् । अवृकाय । शवसे । इयम् । विप्रा । मेधसातये ॥rāyā | hiraṇya-yā | matiḥ | iyam | avṛkāya | śavase | iyam | viprā | medha-sātaye