Sukta 7.66
दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा । पिबतं सोममातुजी ॥
दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या॑तम॒द्रुहा॑ । पिब॑तं॒ सोम॑मातु॒जी ॥
divó dhā́mabhir varuṇa mitráś cā́ yā́tam adrúhā | píbatam sómam ātujī́ ||
With the stations of heaven come, O Varuṇa, and Mitra too, you who do not betray. Drink the Soma that impels swiftly onward.
दि॒वः । धाम॑ऽभिः । व॒रु॒ण॒ । मि॒त्रः । च॒ । आ । या॒त॒म् । अ॒द्रुहा॑ । पिब॑तम् । सोम॑म् । आ॒तु॒जी इत्या॑ऽतु॒जी ॥दिवः । धामभिः । वरुण । मित्रः । च । आ । यातम् । अद्रुहा । पिबतम् । सोमम् । आतुजी इत्यातुजी ॥divaḥ | dhāma-bhiḥ | varuṇa | mitraḥ | ca | ā | yātam | adruhā | pibatam | somam | ātujī ity ātujī