Sukta 7.66
काव्येभिरदाभ्या यातं वरुण द्युमत् । मित्रश्च सोमपीतये ॥
काव्ये॑भिरदा॒भ्या या॑तं वरुण द्यु॒मत् । मि॒त्रश्च॒ सोम॑पीतये ॥
kā́vyebhir adā́bhyā yā́taṃ varuṇa dyumát | mitráś ca sómapītaye ||
Come, O Varuṇa, with the unassailable powers of inspired seeing; come in the luminous strength—Mitra too—for the drinking of Soma.
काव्ये॑भिः । अ॒दा॒भ्या॒ । आ । या॒त॒म् । व॒रु॒ण॒ । द्यु॒ऽमत् । मि॒त्रः । च॒ । सोम॑ऽपीतये ॥काव्येभिः । अदाभ्या । आ । यातम् । वरुण । द्युमत् । मित्रः । च । सोमपीतये ॥kāvyebhiḥ | adābhyā | ā | yātam | varuṇa | dyu-mat | mitraḥ | ca | soma-pītaye